कोयम्बटूरे संस्कृतभारत्याः अखिलभारतीयम् अधिवेशनम् सम्पन्नम्, भारतीयज्ञानपरम्परायाः संवर्धनाय संकल्पः स्वीकृतः

युगवार्ता    09-Nov-2025
Total Views |
संस्कृतभारती - अखिल भारतीय अधिवेशन 2025


- त्रिदिवसीये अधिवेशने देशविदेशेभ्यः आगतानां त्रिसहस्राधिकानां प्रतिनिधीनां सहभागिता जाता

- सर्वे अपि संस्कृतसंवर्धनं संस्कृतप्रचारं च कर्तुम् अटलं संकल्पं स्वीकृतवन्तः

- गीताध्ययनम्, साप्ताहिकसङ्गमः, कुटुम्बबोधः, सामाजिकसमरसता च इत्येषु विषयेषु बलं दत्तम्

कोयम्बटूरम्, 9 नवम्बरमासः (हि. स.)। संस्कृतभारत्याः त्रिदिवसीयम् अखिलभारतीयम् अधिवेशनम् कोयम्बटूरस्थे अमृता-विश्वविद्यापीठे अत्यन्तं उत्साहेन गौरवेन च सम्पन्नम् अभवत्। एतत् अधिवेशनम् 7 नवम्बर 2025 तमे दिने आरब्धम् सन् विविधैः सांस्कृतिकैः, शैक्षणिकैः, संगठनात्मकैः च कार्यक्रमैः सहितम् अभवत्।

देशस्य प्रत्येकं राज्यात् प्रायः त्रिसहस्रं प्रतिनिधयः अस्मिन् अधिवेशने भागं गृहीतवन्तः। इण्डोनेशिया, दुबई इत्यादिदेशेभ्यः अपि संस्कृतभारत्याः कार्यकर्तारः स्वस्यान् उपस्थितिः सूचिता।

कार्यक्रमस्य शुभारम्भः उद्घाटनसमारोहेन अभवत्, यस्मिन् राष्ट्रीयस्वयंसेवकसंघस्य सरकार्यवाहः माननीयः श्रीदत्तात्रेयः होसबाले इति मुख्यातिथिरूपेण उपस्थितः। महामहोपाध्यायः डॉ. मणि द्रविडशास्त्री विशिष्टातिथिरूपेण मंचे उपविष्टः आसीत्। अस्मिन् अवसरस्य प्रसङ्गे भारतीयज्ञानपरम्परायाः आधारेण एकः भव्यः प्रदर्शनोऽपि आयोजितः, यस्मिन् देशस्य विभिन्नभागेभ्यः विंशतिः संस्थाः सहभागित्वं कृतवत्यः।

अधिवेशनस्य अवधौ डॉ. रमेशचन्द्रपाण्डेय, पूर्वः कुलपतिः, श्रीलालबहादुरशास्त्रीसंस्कृतविद्यापीठस्य, संस्कृतभारत्याः नूतनः अखिलभारतीयाध्यक्षः निर्वाचितः। तेन सह राष्ट्रियः, क्षेत्रीयः, राज्यस्तरीयपदाधिकाऱिणां नियुक्तिः अपि प्रकाशिताभवत्।

संस्कृतभारती तथा संस्कृतसंवर्धनप्रतिष्ठानम्, नवदेहली इत्यनेन सह प्रकाशितानि अष्टपुस्तकानि अस्मिन् अधिवेशने लोकार्पितानि। कार्यक्रमे संस्कृतनाट्यनृत्यप्रस्तुतयः दर्शकानां हृदयानि आकृष्टवन्तः। विशेषतः नृत्यप्रदर्शनानि तमिळनाडुराज्यस्य सांस्कृतिकपरम्परायाः सुष्ठु प्रस्तुतीम् अकुर्वन्।

अधिवेशनस्य मुख्यः उद्देश्यः गतवर्षस्य क्रियाकलापानां समीक्षा प्रस्तुतिः च, आगामी योजनासु चिन्तनं च आसीत्। कार्यक्रमे पद्मश्रीसम्मानितः श्री सी.एम. कृष्णशास्त्री, डॉ. श्रीनिवासमूर्ति (निदेशकः, आईआईटी हैदराबाद), प्रोफेसरः श्रीनिवासवरखेड़ी (कुलपतिः, केन्द्रीयसंस्कृतविश्वविद्यालयः), डॉ. गांती एस्. मूर्ति (निदेशकः, भारतीयज्ञानप्रणालीप्रभागः, भारतसरकारः), श्री देवदत्तपाटिल् इत्येते विशिष्टजनाः उपस्थिताः आसन्।

समापनसमारोहे अमृता-विश्वविद्यापीठस्य कुलपतिः प्रोफेसरः वेंकटरङ्गन् मुख्यातिथिरूपेण आसन्। अस्मिन् प्रसङ्गे स्वामी तपस्यानन्दः स्वामीजी, श्रीमती अमिता पृथ्वी, श्री सत्यनारायणभट्टः, श्री जयप्रकाशः (संस्कृतभारत्याः अखिलभारतीयसंगठनमन्त्री) च मंचे आसन्।

स्वीयसंबोधने प्रो. वेंकटरङ्गनेन उक्तम् यत् “भविष्यात् संस्कृतभाषा कृत्रिमबुद्धेः (ए.आई.) भाषा भवितुमर्हति।” श्रीजयप्रकाशस्य पाथेयभाषणेन धन्यवादज्ञापनं च कृत्वा शान्तिमन्त्रेण अधिवेशनस्य समापनं कृतम्।

कोयम्बटूरे सम्पन्नम् एतत् अधिवेशनम् न केवलं संस्कृतभाषायाः पुनरुत्थानस्य प्रतीकं जातम्, अपि तु भारतीयज्ञानपरम्परां आधुनिकयुगेन सह संयोजयितुं दिशि एकः सशक्तः प्रयत्नः अपि सिद्धः।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA

Tags