
खंडवा, 27 फरवरीमासः (हि.स.)।
मध्यप्रदेश-सरकारस्य मुख्यमंत्री-तीर्थदर्शन-योजनान्तर्गतं खंडवा जिला इत्यस्य वरिष्ठ-नागरिकाः अयोध्या-तीर्थयात्रां प्रति प्रेष्यन्ते। अस्य कृते विशेष-रेलयानं अद्य शुक्रवासरे खण्डवा-स्थानकात् प्रस्थितं भविष्यति तथा द्वितीये मार्च-मासस्य दिने पुनरागमिष्यति।
उपजिलाधिकारी दिनेश-सावले-महोदयेन उक्तं यत् आईआरसीटीसी-भोपाल-कार्यालयात् प्राप्त-सूचनानुसारं अस्य तीर्थयात्रायाः कृते अपराह्णे ३:५० वादने खण्डवा-रेलस्थानकात् मुख्यमंत्री-तीर्थदर्शन-योजनान्तर्गतं अयोध्या-तीर्थयात्रायै विशेष-रेलयानं प्रस्थितं भविष्यति।
निर्वाचित-यात्रिकेभ्यः रेलस्थानकस्य समक्षं स्थितायां पार्वतीबाई-धर्मशालायां प्रातः १० वादनात् अपराह्णे २ वादनपर्यन्तं यात्रापत्र-वितरणं क्रियते। उपजिलाधिकारी सावले-महोदयेन सर्वान् चयनित-यात्रिकान् प्रतीक्षा-सूच्यां समाविष्टान् वृद्धजनांश्च आह्वानं कृतम् यत् ते स्वीयम् आधार-पत्रं, मतदाता-परिचय-पत्रं (एतयोः कस्यचित् एकस्य अथवा उभयोः मूल-प्रती) सह प्रातः १० वादने धर्मशालां उपस्थिताः भवेयुः।
---------------
हिन्दुस्थान समाचार