
सूरतम्, 27 फ़रवरीमासः (हि.स.)।
अष्टादश-लोकसभायाः कार्यकाले भारतस्य तथा दक्षिण अफ्रीका-देशस्य मध्ये द्विपक्षीय-संबन्धान् सुदृढीकर्तुं “भारत-दक्षिण-अफ्रीका-संसदीय-मित्रता-समूहः” इति नूतनः समूहः गठितः अस्ति। अस्मिन् समूहे सूरत-क्षेत्रस्य सांसदः मुकेश दलाल सहितं एकादश (११) सदस्याः समाविष्टाः सन्ति।
अस्य मित्रता-समूहस्य मुख्य-उद्देश्यं भारत-दक्षिण-अफ्रीका-देशयोः संसदीय-संवादं सुदृढीकर्तुं, सांस्कृतिक-आदान-प्रदानं प्रवर्धयितुं, द्विपक्षीय-सहकार्याय नूतनां दिशां दातुं च अस्ति।
अनेन उपक्रमेण उभय-देशयोः सांसदानां मध्ये सकारात्मकः रचनात्मकः च संवादः वेगं प्राप्स्यति, येन अन्तर्राष्ट्रीय-स्तरे अपि सम्बन्धाः अधिकं सुदृढाः भविष्यन्ति इति अपेक्षा अस्ति।
---------------
हिन्दुस्थान समाचार